Srimad Valmiki Ramayanam

Balakanda Sarga 56

Vasishta disables Viswamitra's power !

|| om tat sat ||

बालकांड
षट्पंचाशस्सर्गः.

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुत् क्षिप्य तिष्ठतिष्ठेति चाब्रवीत् ॥

स॥ एवं उक्तो वसिष्ठेन महाबलः विश्वामित्रः अग्नेय अस्त्रं उत्‍क्षिप्य तिष्ठ तिष्ठ इति अब्रवीत् ।
Thus spoken to by sage Vasishta, the powerful Viswamitra aimed the Agneya astra and said " Hold on .Hold on".

ब्रह्मदंडं समुत्‍क्षिप्य कालदंड मिवापरम् ।
वसिष्ठो भगवान् क्रोधात् इदं वचन मब्रवीत् ॥

स॥ भगवान् वसिष्ठः कालदंड मिव अपरं ब्रह्मदंडं समुत्‍क्षिप्य क्रोधात् इदम् अब्रवीत् ॥
Bhagavan Vasishta too raising his staff ’'Brahmadanda' which looked like the Kaladanda and spoke angrily.

क्षत्रबंधो स्थितो स्म्येष यद्बलं तद्विदर्शय ।
नाशयामद्य ते दर्पं शस्त्रस्य तव गाधिज ॥

स॥ हे क्षत्रबंधो! गाधिज ! स्थितः अस्मि । यत् शस्त्रस्य बलं तत् विदर्शय । अद्य ते दर्पं नाशयामि ॥

"Oh Wretched one ! Gadhija! I am here. Show me the strength of your weapons. Today I will crush your arrogance."

क्व च ते क्षत्रियबलं क्वच ब्रह्मबलं महत् ।
पश्य ब्रह्म बलं दिव्यं मम क्षत्रियपांसन ॥

स॥ हे क्षत्रिय पांसन ! पश्य मम दिव्यं ब्रह्म बलं ।क्वचे क्षत्रिय बलं क्वच ब्रह्म बलं महत्

"Oh Evil one ! See my auspicious Brahman power. Where is your warrior strength and where is the great Brahman power !"

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
ब्रह्मदंडेन तच्छांतं अग्नेर्वेगैवांभसौ ॥

स॥ गाधिपुत्रस्य घोर माग्नेयं तत् ब्रह्म दंडेन अग्नैर्वेग अंभसौ इव तत् शांतं उद्यतम् ॥

Viswamitra's Agneya astra was was defused by Vasishta's Brahmadanda like water nullified fire.

वारुणं चैव रौद्रं च इंद्रं पाशुपतं तथा ।
इषीकं चापि चिक्षेप कुपितो गाधि नंदनः ॥

स॥ कुपितो गाधिनंदनः वारुणं च रौद्रम् एव तथा पाशुपतं इषीकं च अपि चिक्षेप ॥

Then angry Viswamitra deployed Vasunaastra, Raudraastra similarly Pasupatastra and Ishikaastra

मानवं मोहनं चैव गांधर्वं स्वापनं तथा ।
जृंभणं मादनं चैव संतापन विलापने॥

स॥ मानवं मोहनं च तथैव गांधर्वं स्वापनं च जृंभणं मादनं च संतापन् विलापने च ( चिक्षेप)॥

He deployed Manavastra, Mohanam, similarly Gandharvam, Svapanam. Jrumbhanam, Madanam, Samtapana, Vilapanam.

शोषणं दारणं चैव वज्र मस्त्रं सुदुर्जयम् ।
ब्रह्म पाशं कालपाशं वारुणं पाशमेवच ॥

स॥ शोषणं दारणं च सुदुर्जयं अस्त्रं वज्रं च ब्रह्म पाशं कालपाशं वारुणं पाशमेव च ( चिक्षेप)

Soshanam, undefeatable Daranam, Vajraastra, Brhamapasam, Kalapasam, Varunapasam too.

पैनाकास्त्रं च दयितं शुष्कार्र्द्रे अशनी उभे ।
दंडास्त्रमथ पैशाचंक्रौंचमस्त्रं तथैव च ॥

स॥ पैनाकाअस्त्रं दयितं च उभे शुष्काशनी अर्द्राशनी च दंडास्त्रं पैशाचं क्रौंचमस्त्रं तथैव च (चिक्षेप) ॥

Pinakastra, Dayitamu, the two Shushkasani and Ardrasani, Dandastram, Paisacham too ( were deployed)

धर्म चक्रं कालचक्रं विष्णु चक्रं तथैव च ।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥

स॥ धर्म चक्रं कालचक्रं तथैव विष्णुचक्रं वायव्यं मथनं हयशिरास्त्रं तथा (चिक्षेप) ॥

Dharmachakra, Kalachakra, similarly VishnuChakra, Vayavyam, mathanam, Hayasirastram (were deployed)

शक्ति द्वयं च चिक्षेप कंकाळं मुसलं तथा ।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥

स॥ शक्ति द्वयम् कंकाळं मुसलम् च तथा वैद्याधरं महास्त्रं च दारुणं कालस्त्रं च चिक्षेप ॥

The twin powers of Kankalam and Musalam, the great weapon called Vaidyadharam, Darunam, Kalastram were deployed.

त्रिशूलमस्त्रं घोरं च कापाल मथ कंकणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनंदन ॥

स॥ हे रघुनंदन ! अथ घोरम् अस्त्रं त्रिशूलं अ कापालं कंकणं च अथ एतानि सर्वाणि अस्त्राणि चिक्षेप ॥

Oh Rama ! He fired the ferocious Trisulastra, Kapalam, Kamkanam also. Thus he deployed all weapons.

वसिष्ठे जपतां श्रेष्ठे ततद्भुतमिवाभवत् ।
तानि सर्वाणि दंडेन ग्रसते ब्रह्मणस्सुतः ॥
तेषु शांतेषु ब्रह्मास्त्रं क्षिप्तवान् गाधि नंदनः ॥

स॥ ब्रह्मणः सुतः तानि सर्वाणि दंडेन ग्रसते ! तत् अद्भुतमिव अभवत् । तेषु शांतेषु गाधि नंदनः ब्रह्मास्त्रं वसिष्ठं जपतां श्रेष्ठे क्षिप्तवान् ।

Vasishta ,that son of Brahma defused all of them using his Brahmadanda. When all of them were defused the son of Gadhi then deployed the Brahma astra itself on Vasishta, the best of those who perform Japa.

तदस्त्र मुद्यतम् दृष्ट्वा देवास्साग्नि पुरोगमाः ॥
देवर्षयश्च संभ्रांताः गंधर्वा स्समहोरगाः ।
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥

स॥ तत् उद्यतम् अस्त्रं दृष्ट्वा स अग्नि पुरोगमाः देवाः देवर्षयश्च गंधर्वाः महोरगाः सह संभ्रांतः (आसीत्) ब्रह्मास्त्रे त्रैलोक्यं संत्रस्तं समुदीरिते ।

As the Brahmaastra was deployed all the Devas Gandharvas and Nagas with Agni in the front were worried. All the three worlds too were stricken with fear.

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
वशिष्ठो ग्रसते सर्वं ब्रह्मदंडेन राघव ॥

स॥ हे राघव । तत् महाघोरं अस्त्रं ब्राह्मं अपि ब्राह्मेण तेजसा ब्रह्म दंडेन वसिष्ठो ग्रसते ॥

Oh Raghava! Even that fierce Brahmastra was defused by Brahmadanda of supremely radiant Vasishta.

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ।

स॥ ब्रह्मास्त्रं ग्रसमानस्य महात्मनः वसिष्ठस्य रौद्रं सुदारुणम् रूपं त्रैलोक्य मोहनं आसीत् ॥

The form of that great Vasishta who defused the fierce Brahmaastra too was fierce to look at and it mesmerized the three worlds.

रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुः आग्नेर्दूमाकुलार्चिनः ॥
प्राज्वलद्ब्रह्मदंडश्च वसिष्ठस्य करोद्यतः ।
विधूम इव कालाग्निः यमदंड इवापरः ॥

स॥ महात्मनः वसिष्ठस्य सर्वेषु रोम कूपेषु धूमकुलार्चिषः अग्नेः मरीच्य इव निष्पेतुः ॥वसिष्ठस्य ब्रह्मदंडश्च विधूम इव कालाग्निः अपरं यमदंड इव करोद्यतः ॥

From the pores of Vasishta's skin fires with smoke were emanating like the the rays of fire. The Brahmadanda in the hands of Vasishta was like a smoke less fire of time and it was like another Yamadamda.

ततोस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्।
अमोघम् ते बलं ब्रह्मन् तेजोधारयतेजसा॥
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
प्रसीद जपतां श्रेष्ठ लोकास्संतु गतव्यथाः॥

स॥ ततः मुनिगणाः वसिष्ठं जपतां वरं स्तुवन् । हे ब्रह्मन् ते बलं अमोघं तेजसा तेजः धारय ॥ हे ब्रह्मन् ! विश्वामित्रो महातपाः त्वया निगृहीतः । जपतां श्रेष्ठ प्रसीद लोकः गत व्यधाः संतु ।

Then all the sages sang in praise of Vasishta " O Brahman ! Your power is amazing. With your power please defuse the power of Brahmastra. O Brahman ! you have held back Viswamitra a great ascetic. O best of Ascetics be pleased. Let the concerns of all the worlds be removed."

एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
विश्वामित्रोsपि विकृतो विनिश्वस्येदमब्रवीत् ॥

स॥ एवमुक्तः महातपाः महातेजाः ( वसिष्ठः ) शमं चक्रे ।विकृतः विश्वामित्रः अपि विनिश्वस्य इदं अब्रवीत् ॥

Having been told thus the great Acetic Vasishta became one of peaceful disposition. The defeated Viswamitra spoke as follows.

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलं ।
एकेन ब्रह्मदंडेन सर्वास्त्राणि हतानि मे ॥
तदेतत् समवेक्ष्याहं प्रसन्नेंद्रियमानसः ।
तपो महत् समास्थास्ये यद्वैब्रह्मत्वकारणम्॥

स॥ क्षत्रिय बलं धिग्बलं । ब्रह्म तेजो बलं बलं । एकेन ब्रह्मदंडेन मे सर्व अस्त्राणि हतानि ॥ तत् एतत् समवेक्ष्य अहं प्रसन्न इंद्रियमानसः यदि वै ब्रह्मत्व कारणम् महत् तपो समस्थास्ये ॥

"The power of a warrior is nothing. The power of Brahman is the power. With his one staff Brahmadanda all my weapons have been defused. Hence rejecting the power of a warrior, with a peaceful disposition I will do great penance to attain that which is responsible for attaining Brahmatva !

॥इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे षट्पंचाशस्सर्गः ॥

|| Thus the fifty sixth Sarga of Balakanda in Valmiki Ramayan comes to an end ||

|| ओम् तत् सत् ||

 

|| om tat sat ||